top of page
अद्वैतशतकम् | Advaitashatakam
अद्वैतशतकम्
प्रणम्य परमानन्दं स्वात्मानं परमेश्वरम् ।
अद्वैतशतकं वक्ष्ये सर्ववेदान्तसङ्ग्रहम् ॥ १॥
ज्ञप्तिरूपो महादेवो स्वेच्छया देहमाविशन् ।
जीवात्मेति श्रुतौ प्रोक्तो देहो मायेति संज्ञितः ॥ २॥
तस्माद्दृश्यमयो देहो देहि दृग्रूप उच्यते ।
एवं दृग् दृश्यरूपेण संस्थितं भूतमण्डलम्…